अनारब्धाक्षेपं परमकृतबाष्पव्यतिकरं निगूढान्तस्तापं हृदयविनिपातव्यवसितम्।
कृशाङ्ग्या यत् पापे व्रजति मयि नैराश्यपिशुनं श्लथैरङ्गैरुक्तं हृदयमिदमुन्मीलयति तत्॥ १९०॥
गिरां सैका वाच्यं हृदयमपि तत्रैव निरतं, पुरः सर्वं दृष्टं भवति हरिणाक्ष्या मुखमिति।
वियोगस्तन्वङ्ग्याः कथमनुपकारी यदि भवेत् कृतं तद्रूपेण त्रिभुवनमिदं येन कृतिना॥ १९१॥
क्वचित् स्वप्ने पश्याम्यविरचितलम्बालकमुखीं क्वचित् सङ्कल्पस्तां सुहृदिव पुरः स्थापयति मे।
क्वचिद् द्रष्टव्या सा सुखयति मुहूर्तँ ह्यनुसृता नमस्तस्यै यस्या रमयति वियोगोऽपि हृदयम्॥ १९२॥