भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 761 to 770 of 1475 verses
यथा वा—

अनारब्धाक्षेपं परमकृतबाष्पव्यतिकरं निगूढान्तस्तापं हृदयविनिपातव्यवसितम्।

कृशाङ्ग्या यत् पापे व्रजति मयि नैराश्‍यपिशुनं श्लथैरङ्गैरुक्तं हृदयमिदमुन्मीलयति तत्॥ १९०॥

वक्रे —

५. लज्जाप्रणाशो यथा—

गिरां सैका वाच्यं हृदयमपि तत्रैव निरतं, पुरः सर्वं दृष्टं भवति हरिणाक्ष्या मुखमिति।

वियोगस्तन्वङ्ग्याः कथमनुपकारी यदि भवेत् कृतं तद्रूपेण त्रिभुवनमिदं येन कृतिना॥ १९१॥

यथा वा—

क्वचित् स्वप्ने पश्‍याम्यविरचितलम्बालकमुखीं क्वचित् सङ्कल्पस्तां सुहृदिव पुरः स्थापयति मे।

क्वचिद् द्रष्टव्या सा सुखयति मुहूर्तँ ह्यनुसृता नमस्तस्यै यस्या रमयति वियोगोऽपि हृदयम्॥ १९२॥

Showing 761 to 770 of 1475 verses