कान्तामयं विरहिणीमभिगन्तुकामः कान्तामयं जपति मन्त्रमिवान्तरात्मा॥ १८३॥
कृतस्सङ्कल्पोऽपि व्यथयति परिच्छेदविषयः परिच्छिन्धीत्युक्तं वचनमपि पीडां जनयति।
मनस्स्मृत्वा स्मृत्वा ग्लपितामिदमत्रैव रमते प्रबन्धान्तश्चिन्ता सुखयति च मां दुःखयति च॥ १८४॥
अद्यापि तत्कनकचम्पकदामगौरं गोरोचनातिलकबिन्दुकृतैकबिन्दु।
ईषत्कटाक्षहसितोल्बणगण्डदेशं तन्व्या मुखं पथि मया सह गच्छतीव॥ १८५॥
निरस्तालङ्कारां नयनजलसिक्ताधरपुटां रवावस्तं याते द्विगुणतरखेदालसमुखीम्।
अहो दूरस्थां तां करकमलविन्यस्तवदनां प्रियां पश्यामीति स्मृतिशरणकुड्ये हि लिखिता॥ १८६॥