भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 741 to 750 of 1475 verses
कान्तामयं विरहिणीमभिगन्तुकामः कान्तामयं जपति मन्त्रमिवान्तरात्मा॥ १८३॥

यथा वा—

कृतस्सङ्कल्पोऽपि व्यथयति परिच्छेदविषयः परिच्छिन्धीत्युक्तं वचनमपि पीडां जनयति।

मनस्स्मृत्वा स्मृत्वा ग्लपितामिदमत्रैव रमते प्रबन्धान्तश्चिन्ता सुखयति च मां दुःखयति च॥ १८४॥

२. तत्रैव अनुस्मरणं यथा—

अद्यापि तत्कनकचम्पकदामगौरं गोरोचनातिलकबिन्दुकृतैकबिन्दु।

ईषत्कटाक्षहसितोल्बणगण्डदेशं तन्व्या मुखं पथि मया सह गच्छतीव॥ १८५॥

यथा वा—

निरस्तालङ्कारां नयनजलसिक्ताधरपुटां रवावस्तं याते द्विगुणतरखेदालसमुखीम्।

अहो दूरस्थां तां करकमलविन्यस्तवदनां प्रियां पश्‍यामीति स्मृतिशरणकुड्ये हि लिखिता॥ १८६॥

Showing 741 to 750 of 1475 verses