वामबाहुशिखराग्रशायिना सा मुखेन लवलीफलत्विषा।
दिङ्मुखप्रहितलोललोचना मृत्युमुत्सवमिव प्रतीक्षते॥ १८०॥
११. ललितायामुपनीयमानं यथा—
रुद्धं रुद्धं वहति सलिलं नेत्रयोरुष्णमुष्णं न्यस्तं न्यस्तं सपदि हृदये चन्दनं शोषमेति।
यातं यातं दयितविरहे जीवितं धारयन्त्या दुःखं दुःखं व्रजति रजनी कल्पतुल्या वराक्याः॥ १८१॥
१२. शान्तायामनुमीयमानं यथा—
ओहीचदेण उविहुरा पुंणमहुआ पओसि अंपंथं।
ठिअपहिअ पिगहवइ आसाणडिआपुलोएइ॥ १८२॥
मनोदृग्वक्त्रावाग्वपुश्चेष्टासु विरहिणः स्वरूपावस्थानं वियुक्तावस्था।