भवतु रुषि कठोरा किन्तु रम्या मृगाक्षी निरुपधि मधुराणां स्वादवोऽमी विकाराः।
श्रयति कठिनभावः शुक्तिपात्रेष्वपो याः कवलनबहुमानस्तास्सुसुक्ताफलान्तः/लन्ति ॥ १६१॥
मानापनयने सामदानभेददण्डयोगा मानभङ्गोपायाः। तेषु —
प्रियवचनमनुवृत्तिः प्रणाम इति त्रिविधं साम।
अतिसन्धानं समर्पणं ॰ ॰ ॰ मिति त्रिविधं दानम्।
शङ्काद्युत्पादनमिन्द्रजालं मायेति त्रिविधो भेदः। उपेक्षा प्रतिकोपः प्रस्थानमिति त्रिविधो दण्डः। तत्र सामप्रकारेषु
१. प्रियवचनं यथा—(गास. ९२५ वे.)
तरलच्छि चंदवअणे थोरत्थणि करिअरोरु तणुमज्झे।
दीहावि समप्पइ सिसिरजामिणी कह णु दे माणो॥ १६२॥