२. तत्र फलार्थायाः प्रवृत्तेरुपक्रमस्तद्धेतुर्वा तत् प्रतिमुखम्, यथोच्यते—(नाशा. १९.३७)
बीजस्योद्घाटनं यत्र द्ृष्टनष्टमिव क्वचित्।
मुखे न्यस्तस्य द्ृश्येत तद् वै प्रतिमुखं स्मृतम्॥ २०३॥
३. यत्र क्रियाफलस्योद्भेद (लाभ)नाशान्वेषणादयो जायन्ते स गर्भः। यथोच्यते—
उद्भेदः कार्यबीजस्य प्राप्तिरप्राप्तिरेव वा।
पुनश्चान्वेषणं यत्र स गर्भ इति संज्ञितः॥ २०४॥
४. क्रियाफलावाप्तये विचारनिर्णयो विमर्शः। यथोच्यते—(नाशा. १९.३९)
गर्भनिर्भिन्नबीजोत्थः(ऽर्थः) क्रोधव्यसनजोऽपि वा।
विप्रलम्भकृतो वापि विमर्श इति कीर्तितः॥ २०५॥