भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 711 to 720 of 765 verses
तस्य च विनिश्चयावस्थायां पञ्च कर्माणि —

१. अनुपलब्धस्य ज्ञानम्, २. उपलब्धस्य निश्चयबलाधानम्; ३. अनर्थद्वैधस्य संशयच्छेदनम्; ४. एकदेशद्‍ृष्टस्य शेषोपलब्धिः, ५. विपर्ययविचिकित्सा चेति।

तेन च निर्णीताऽभिमतफलसिद्धिः(नायकः) अलब्धलाभार्थं, लब्धपरिरक्षार्थं, रक्षिताभिवृद्धये, अर्थितोपयोगाय, उपयुक्तपर्याप्‍तये च वर्तमानः यं यं क्रियाप्रबन्ध— स्कन्धमध्यास्ते तस्य तस्य मुखप्रतिमुखाकृतिभिः सन्ध्यादयो व्यपदेशा भवन्ति। ते च सन्धयोऽवस्थासंस्थासमवस्था इति। तत्र —

(पञ्चनाटकसन्धयः)

मुखः प्रतिमुखो गर्भो विमर्शो निर्वहणम् इत्यारम्भात् परिसमाप्‍तिपर्यन्तायाः प्रवृत्तेः पञ्च सन्धयो भवन्ति। यथोच्यते—(नाशा. १९.३५)

मुखं प्रतिमुखं गर्भो विमर्शश्च तथैव हि।

तथा निर्वहणं चेति सन्धयः पञ्च नाटके॥ २०१॥

१. तत्राधिकारिणो नायकादेर्यत्र निर्देशस्तन् मुखम्। उक्तं च—(नाशा. १९.३६)

यत्र बीजसमुत्पत्तिर्नानार्थरससम्भवा।

कथाशरीरानुगता तन्मुखं परिकीर्तितम्॥ २०२॥

Showing 711 to 720 of 765 verses