अमन्त्रस्त्रावं च प्रतिपन्नां योजयेत्।
संप्रयोगे च आयातिं वर्णयेत्' (कासू. ५.५) इति प्रतारणप्रकारः। उदाहरणच्छाया, मालतीमाधवे द्वितीयेऽङ्के लवङ्गिकाबुद्धरक्षितादीनां वाक्यानि। तेषु— (मामा. २.१./२)
'सहि सलहणिज्जं दुल्लहमणोरहफलं जीअलोअस्स सरिसमहाभाअवल्लहसमाअमो', (सखि श्लाघनीयं दुर्लभमनोरथफलं जीवलोकस्य, सदृशमहाभागवल्लभसमागमः) इति रामणीयकदर्शने नियोगः।
(मामा. ३.३/४–८) एसो क्खु महुर-महु-रसोल्लइ-मंजरी-कवलण-केलि-कलकोइल- उल-कोलाहलोन्निद्द-सहआर-सिहरुड्डण-चडुल-चंचरीअ-णिअर-वइ-अरुद्दलिद- दल-कराल-चंपआहिवास-मणोहरो मराल-मंसल-जहण-परिणाहु-व्वहण- मंथरोरुभर-विसंठुल-क्खलिद-चलण-संचार-विअंभिद-परिस्समोपणीद-सेअ- सीअर-सुहाबिंदुजोज्जंतमुद्ध-मुहचंद-चंदणाअमाण-सीअलसुरहि-सुहप्फंसो तुमं परिस्सअदि कुसुमाअरुज्जाणमारुदो। कुलतापविसहर ॰ ॰ ॰ ॰ ॰ ॰ मालती - सहि इमस्सिं कुंदणिउंजे कुसुमाइं अवचिणुह्य। इदो वि अवरस्सिं अवचिणुम्ह। एदं देवदामंदिरदुवारं। (सहि एसो) अंगराओ इमाओ कुसुममालाओ' (एष खलु मधुरमधुरसार्द्रमञ्जरीकबलनकेलिकलकोकिलकुलकोलाहलोन्निद्र— सहकार—शिखरोड्डीन—चटुलचच्ञरीकनिकरव्यतिकरोद्दलितदलकरालचम्पका— धिवास—मनोहरो मरालमांसलजघनपरिणाहोद्वहनमन्थरोरुभरविसंष्ठुलस्खलितचरण— सञ्चारविजृम्भितपरिश्रमोपनीतसेकशीकरसुधाबिन्दुद्द्योत्यमानमुग्धमुखचन्द्रचन्दनायमान— शीतल सुरभिसुखस्पर्शः त्वां परिष्वजति कुसुमाकरोद्यानमारुतः। कुलतापविषहर ॰ ॰ ॰ मालती— सखि, अमुष्मिन् कुञ्जनिकुञ्जे कुसुमानि अवचिनुवः। इतोऽप्यपरस्मिन् अवचिनुवः। एतद् देवतामन्दिरद्वारम्। (सखि एष) अङ्गरागः, इमाः कुसुममालाः') इति। पुरस्तादुपवर्णितानां उपवनादीनां सानुप्रवेशं समादरेण दर्शनम्।
(मामा. ३. १४) अण्णं अ जाणिदं होदु भअवदीए। एदं अ माहवपडिच्चंअसणाहं चित्तलअं। एसा वि तस्स एव्व सहत्थविरइ एत्ति कंठावलंविदा वउलमाला जीवणं पिअसहीए। (अन्यच्च ज्ञातं भवतु भगवत्या। एतच्च माधवप्रतिच्छन्दकसनाथं चित्रफलकम्। एषापि तस्यैव स्वहस्तविरचितेति कण्ठावलम्बिता वकुलमाला जीवनं प्रियसख्याः) इत्येकान्ते अनुरागशंसिनः चित्रफलकादेः प्रकाशनम्।
(मामा. ३.७/८) कामन्दकी— वत्से इत इतः। अयि विरम विरम निस्सहासि जाता।
स्खलयति वचनं ते संश्रयत्यङ्गमङ्गं जनयति मुखचन्द्रोद्भासिनः स्वेदबिन्दून्।
मुकुलयति च नेत्रे सर्वथा सुभ्रु! खेद— स्त्वयि विलसति तुल्यं वल्लभालोकनेन॥ १६२॥