भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 731 to 740 of 890 verses
कामन्दकी—भवति लवङ्गिके वत्सया सह प्रविशाभ्यन्तरमितः। स्तम्भापवारितौ तिष्ठावः। (मामा. ६.७–८) वयस्य गत्वा लवङ्गिकास्थाने तिष्ठ। सहि मा णं पडिबोधइस्ससि। दाणिं एव्व दुम्मणाअमाणा ईस मण्णे पसुत्तेति। सणिअं एव्व सअ(णद्धम्मि) उवविस। (सखि मैनां प्रतिबोधयिष्यसि। इदानीमेव दुर्मनायमाना ईषन्मन्ये प्रसुप्‍तेति। शनैरेव शयनार्धे उपविश।)

जितमिह भुवने त्वया यदस्य़ाः सखि वकुलावलि वल्लभासि जाता।

परिणत-बिसदण्ड- पाण्डु-मुग्ध-स्तन-परिणाह-विलास-वैजयन्ती ॥ १६५॥

इति

तां वा तस्य प्रदर्शयेदिति प्रतिच्छन्दः।

अह सो तुमं कंदप्पजणणिं रुक्किणिं विअ पुरुसुत्तमो सअंगाहसाहसेण सहधम्मआरिणिं करेइ। को तदो पडिवत्ती। सहि कीस मं एत्तिअं आसासेध। काहं इमस्स देण एव्व अत्ताणं पणीकदुअ मं मिच्चुकवलणादो कड्डिअस्स तस्स एब्व परएअस्स? अत्तणो सरीरस्य। सहि सच्चं करेहि। कहिदं एव्व हिअआवेदसूअएहिं दीहणीसासेहिं। सरिसं महाणुभावदाए। सुमरेसि एदं। (अथ स त्वां कन्दर्पजननीं रुक्मिणीमिव पुरुषोत्तमः स्वयंग्राहसाहसेन सहधर्मचारिणीं करोति। का ततः प्रतिपत्तिः। सखि! कस्माद् मामेतावद् आश्वासयथ। काहमेतस्य। तेनैव आत्मानं पणीकृत्य मां मृत्युकबलनादीषत्कृष्टस्य तस्यैव परकीयस्य आत्मनश्शरीरस्य। सखि सत्यं कथय। कथितमेव हृदयावेदसूचकैः दीर्घनिःश्वासैः। सदृशं महानुभावतायाः। स्मरस्येतत्।) इत्यमन्त्रस्त्रावप्रतिपत्तिः।

उद्दामदेहपरिदाहमहाज्वराणि सङ्कल्पसन्निधिविनोदितवेदनानि ।

त्वत्स्नेहसंविदवलम्बितजीवितानि किं वा मयापि न दिनान्यतिवाहितानि॥ १६६॥

(मामा. ६. १३)

सहि उवालंबणिज्जं उबालद्धासि (सखि, उपालम्भनीयमुपालब्धासि।)

Showing 731 to 740 of 890 verses