५. क्रियाफलेन सम्यग्योगो निर्वहणम्, यथोच्यते—(नाशा. १९.४०)
यत्रानयनमर्थानां मुखाद्यानां महौजसाम्।
फलोपसङ्गतानां स्याज्ज्ञेयं निर्वहणं च तत्॥ २०६॥
इहोदाहरणमेकश्लोकेन। (अमरुश. ७५)
कथमपि कृतप्रत्यापत्तौ प्रिये स्खलितोत्तरे विरहकृशया कृत्वा व्याजं प्रकल्पितमश्रुतम्।
असहन—सखी—श्रोत्र—प्राप्ति—प्रसाद—ससम्भ्रमं विवलितद्ृशा शून्ये गेहे समुच्छ्वसितं पुनः॥ २०७॥
एवं महावाक्येष्वपि रत्नावल्यादिषु द्रष्टव्यम्। तेषां च किलोत्क्षेपपरिकरपरिन्यासादीनि चतुष्षष्टिरङ्गानि। तानि च नेह प्रतन्यन्ते। अभ्युपगतत्वात्। यथा ह्युपक्षेपादयस्तथोपोद्घातादयोऽपि सम्भवन्त्येव। तथा च ते प्रबन्धेष्वाधिकारिका आनुषङ्गिकाः प्रासङ्गिका वा प्रयोक्तव्याः, यथा सन्दर्भशोभायै भवन्ति। तेनानुसन्ध्यादीनामपि समावेशः सिद्धो भवति। तत्र किमाधिकारिकं किमानुषङ्किकं किं प्रासङ्गिकमिति चेत्— (नाशा. १९.३, ४)
यत्कार्यं हि फलप्राप्तौ समर्थः परिकल्प्यते।
तदाधिकारिकं ज्ञेयमन्यत् स्यादानुषङ्गिकम्॥ २०८॥
कारणात् फलसौभाग्यवृतं स्यादाधिकारिकम्।