तस्योदाहरणार्थं तु प्रासङ्गिकमिहोच्यते॥ २०९॥
एवमेते पञ्चसन्धयः साङ्गाः सानुषङ्गप्रसङ्गाश्च दैवपौरुषोभयव्यापारप्रधानतया त्रेधा सम्भवन्ति— अवस्थाः, संस्थाः, समवस्था इति। तत्र—
यासु दैवस्य प्राधान्यं ता अवस्थाः, दैवकृतो हि कार्यपरिणामोऽवस्था। तत्र पौरुषमुपाश्रय आस्ते, दैवमेव च प्रधानत्वेन व्याप्रियते। तत्र ह्यनुगुणे कार्यमारब्धमारम्भादिभङ्ग्या सिद्ध्यत्येव।
आरम्भप्रसवोद्भेदः किञ्चिच्छेषसमाप्तयः॥ २१०॥
१. औत्सुक्यमात्रबन्धस्तु यो बीजस्य निबध्यते।
महतः फलयोगस्य स खल्वारम्भ इष्यते॥ २११॥
२. अपश्यतः फलप्राप्तिं यो व्यापारः फलं प्रति।
परं त्वौत्सुक्यगमनं प्रसवः(प्रयत्नः) स उदाहृतः॥ २१२॥