भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 741 to 750 of 765 verses
तस्योदाहरणार्थं तु प्रासङ्गिकमिहोच्यते॥ २०९॥

एवमेते पञ्चसन्धयः साङ्गाः सानुषङ्गप्रसङ्गाश्‍च दैवपौरुषोभयव्यापारप्रधानतया त्रेधा सम्भवन्ति— अवस्थाः, संस्थाः, समवस्था इति। तत्र—

यासु दैवस्य प्राधान्यं ता अवस्थाः, दैवकृतो हि कार्यपरिणामोऽवस्था। तत्र पौरुषमुपाश्रय आस्ते, दैवमेव च प्रधानत्वेन व्याप्रियते। तत्र ह्यनुगुणे कार्यमारब्धमारम्भादिभङ्ग्या सिद्ध्यत्येव।

के पुनरारम्भादयः?

आरम्भप्रसवोद्भेदः किञ्चिच्छेषसमाप्‍तयः॥ २१०॥

तत्र—(नाशा. १९.८—१२)

१. औत्सुक्यमात्रबन्धस्तु यो बीजस्य निबध्यते।

महतः फलयोगस्य स खल्वारम्भ इष्यते॥ २११॥

२. अपश्यतः फलप्राप्‍तिं यो व्यापारः फलं प्रति।

परं त्वौत्सुक्यगमनं प्रसवः(प्रयत्‍नः) स उदाहृतः॥ २१२॥