३. ईषत्प्राप्तिर्यदा काचित् फलस्य परिकल्प्यते।
भावमात्रेण तं प्राहुरुद्भेदमिह सूरयः॥ २१३॥
४. नियोगात् १ तु फलप्राप्तिं यदा भावेन पश्यति।
किञ्चिच्छेषां समाप्तिं तामाप्तिं सन्तः प्रचक्षते॥ २१४॥
५. अभिप्रेतं समग्रं च प्रतिरूपं क्रियाफलम्।
इतिवृत्ते भवेद् यत्र समाप्तिः सा निगद्यते॥ २१५॥
इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते श्रृङ्गारप्रकाशे दूतविशेषदूतकर्मोपवर्णनं नाम
॥ एकोनत्रिंशः प्रकाशः॥ २९॥
काऽवस्था कः सन्धिः काऽर्थप्रकृतिश्च नाट्यसंहनने।
सर्वमिदं त्विह विहितं सुस्पष्टं भोजदेवेन॥