कामन्दकी—वत्स माधव इयमशेषसामन्तमस्तकोत्तंसपरागरञ्जितचरणाङ्— गुलेरमात्यभूरिवसोरेकापत्यं मालती भगवता सदृशसंयोगरसिकेन वेधसा मन्मथेन च तुभ्यं दीयते।
परिणतिरमणीयाः प्रीतयस्त्वद्विधाना— महमपि तव मान्या हेतुभिस्तैश्च तैश्च।
तदिह सुवदनायां तात! मत्तः परस्तात् परिचयकरुणायां सर्वथा मा विरंसीः॥ १६९॥
सम्प्रयोगात् प्रतिवर्णनम्—एवमयमुक्तः, प्रतारणे प्रकारविस्तारः, इतिवृत्तेषु वेदितव्यः।
नायकयोः समीहितवस्तुसंशये च अवष्टम्भप्रदानमाश्वासनम्।
यथा— मालतीमाधवे—(मामा. ४.१/२)
कामन्दकी— वत्स माधव अपि भावानमंस्त यभ्दूरिवसुरेव मालतीं मह्यं दास्यतीति।
माधवः—(सविलक्षं) नहि, नहि।