भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 771 to 780 of 890 verses
(मामा. १. ३७)

यदाह—मालत्या अपि स्नेहदर्शनात् सुश्लिष्टमेतत्। योऽपि हि कपोलपाण्डुतादि— चिह्नसूचित प्राग्बन्धस्तस्याः कामिभिष्वङ्गः सोऽपि त्वन्निबन्धन एवेति व्यक्तम्। एतत्तु न ज्ञायते क्व दृष्टपूर्वस्तया वयस्य इति। न खलु तादृश्यो महाभागधेयाः कुमार्यः अन्यत्र अवसक्तचेतसः भूत्वा परत्र चक्षूरागिण्यो भवन्ति। अपि च—(मामा. १. ३६)

अन्योन्यसम्भिन्नदृशां सखीनां तस्यास्त्वयि प्रागनुरागचिह्नम्।

कस्यापि कोऽपीति निवेदितं च धात्रेयिकायाश्चतुरं वचश्च॥ १७३॥

कलहंसः—(उपसृत्य) एदं अ। (एतच्च।) (चित्रफलकं दर्शयति।)

यथा च— वयस्य कथं भगवत्याः सा मेधाशक्तिर्विपर्येष्यति।

यथा च—

मकरन्दः— अपि नाम बुद्धरक्षितासङ्क्रान्ता भगवतीनीतिर्विजेष्यते।

लवाङ्गिका—को सन्देहो महाभाअस्स। किं बहुणा, जह एसो मंजीरसद्दो तह जाणामि देण ववदेसेण आणीदा बुद्धरक्खिदाए मदअंतिएत्ति। ता उत्तरीआववारिदो सुत्तलक्खणो चिट्ठ। (कस्सन्देहो महाभागस्य। किं बहुना। यथैष मञ्जीरशब्दः तथा जानामि तेन व्यपदेशेनानीता बुद्धरक्षितया मदयन्तिकेति। तदुत्तरीयापवारितः सुप्‍तलक्षणस्तिष्ठ)॥ १७४॥

यथा च—सहि एव्वं पि णाद्धि आसासो। जस्स कारणादो तुमं उक्खडिअबंधणं कंकेलिपल्लव विअ हिअअं धारेंदी किलंदणवमालिआकुसुमणीसहा परिहिअसि, सो वि जाणाविदो भअवदा वम्महेण संदावस्स दूसत्तणं। (सखि, एवमपि नास्ति आश्वासः। यस्य कारणात् त्वं उत्खण्डितबन्धनं कङ्केलिपल्लवमिव हृदयं धारयन्ती क्लान्तनवमालिकाकुसुमनिस्सहा परिहीयसे, सोऽपि ज्ञापितो भगवता मन्मथेन सन्तापस्य दुस्सहत्वम्।)

Showing 771 to 780 of 890 verses