सुतनु विसृजोत्कम्पं सम्प्रत्यसावपि पाप्मनः फलमनुभवत्युग्रं पापं प्रतीपविपाकिनः॥ १७६॥
धैर्य़ँ निधेहि हृदये हत एष पापः किं वा कदाचिदपि केनचिदन्वभावि।
सारङ्गसंहृतिविधाविभकुम्भकूटकुट्टाकपाणिकुलिशस्य हरेः प्रमादः॥ १७७॥
दैवयोगात् पुरुषापराधात् प्रमादतो वा कार्यस्य व्यापदि प्रत्यूहप्रशमनम् अत्ययप्रतीकारः।
यथा— शाकुन्तले—(४.१)आः अतिथिपरिभाविनि!
विचिन्तयन्ती यमनन्यमानसा तपोनिधिं वेत्सि न मामुपस्थितम्।
स्मरिष्यति त्वां न स बोधितोपि सन् कथां प्रमत्तः प्रथमं कृतामिव॥ १७८॥
प्रियवंदा— हद्धि तं एव्व संउत्तं। कस्सिं वि पूआअरुहे अवरद्धा सुण्णहिअआ सउंदला। (पुनर्विलोक्य) ण क्खु जस्सिं कस्सिं वि। एसो दुव्वासो सुलहकोवो महेसी। (हा धिक्, तदेव संवृत्तम्। कस्मिन्नपि पूजार्हे अपराद्धा शून्यहृदया शकुन्तला। (पुनर्विलोक्य) न खलु यस्मिन् कस्मिन्नपि। एष दुर्वासाः सुलभकोपो महर्षिः।)