अनसूया— गच्छ पादेसु पणमिअ णिव्वट्टेहि णं। (गच्छ, पादयोः प्रणम्य निवर्तय एनम्।)
प्रियंवदा— सहि सुहावक्कोधो कस्य अणुणअं गण्हइ। किंचि उण साणुकंपो किदो। (सखि, स्वभावक्रुद्धः कस्य अनुनयं गृह्णाति? किंचित् पुनः सानुकम्पः कृतः।)
अनसूया—कहेहि एदं (कथयैतत्)।
प्रियंवदा— जदा अणुणीदो वि णिवत्तिदुं ण इच्चदि तदा विण्णविदो मए दुव्वासा, 'भअवं पढमभत्तिं अवेक्खिअ अविण्णादतवप्पहावस्स दुहिदुजणस्स भअवदा एक्को अवराहो मरिसिदब्बो' इति। सो तदो ' ण मे वअणं अण्णहा होदुं अरुहदि किंदु अहिण्णाणाहरणदंसणेण सावो णिवत्तिस्सदि' त्ति मंतअतो एव्व अंतरिहिदो।
यदा— अनुनीतोऽपि निवर्तितुं नेच्छति, तदा विज्ञापितो मया दुर्वासाः— 'भगवन् प्रथममित्यवेक्ष्य अविज्ञाततपः प्रभावस्य दुहितृजनस्य भगवतैकः अपराधो मर्षयितव्य' इति। स तदा— 'न मे चनमन्यथा भवितुमर्हति। किन्तु अभिज्ञानाभरणदर्शनेन शापो निवर्तिष्यति' इति मन्त्रयन्नेवान्तर्हितः।
अनसूया— सक्कं दाणिं आससिदुं। अद्धि तेण राएसिणा संपत्थिदेण सणमहेअंकिदं अंगुलीअअं सुमरणीअंति सउंदलाए सअं पिणद्धं। तेण साहीणोवाआ सउंदला भविस्सदि। {शक्यमिदनीमाश्वसितुम्। अस्ति तेन राजर्षिणा संप्रस्थितेन स्वनामधेयाङ्कितं अङ्गुलीयकं स्मरणीयमिति शकुन्तलाया स्वयं पिनद्धम्। तेन स्वाधीनोपाया शकुन्तला भविष्यति}॥ १७८॥
नादस्तावद् विकलकुररीकूजितस्निग्धतारः'॥ १८०॥
करालायतनाच्चायमुच्चरन् करुणध्वनिः।