प्रणयसखीसलीलपरिहासरसाधिगतै— र्ललितशिरीषपुष्पहननैरपि ताम्यति यत्।
वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः पततु शिरस्यकाण्डयमदण्ड इवैष भुजः॥ १८४॥
सन्दर्शनसमागमादिहेतोः सङ्केतकादौ नायकयोर्नियोगः प्रयोज्यप्रेषणम्। यथा मालतीमाधवे—
बुद्धरक्षिता—हुं तुमं उण कहिं पत्थिदासि। (हुम्। त्वं पुनः कुत्र प्रस्थितासि?)
अवलोकिता— अहं क्खु भअवदीए माधवसआसं अणुप्पेसिदा। संदिठ्ठं अ तस्स सङ्करउरसम्बन्धि कुसुमाकरुज्जाणं गदुअ कुंजणिउंजपेरंतरत्तासोअगङणे चिट्टेत्ति। गदो अ तत्थ माहवो। (अहं खलु भगवत्या माधवसकाशमनुप्रेषिता। संदिष्टं च तस्मै शङ्करपुरसम्बन्धि कुसुमाकरोद्यानं गत्वा कुञ्जनिकुञ्जपर्यन्तरक्ताशोकगहने तिष्ठेति। गतश्च तत्र माधवः।)
अवलोकिता— अज्ज किसणचउद्दसित्ति जणणीए समं मालदी सङ्करउरं गमिस्सदि। तदो एव्वं किल सोहग्गं बढ्ढइ त्ति देवदारहणणिमित्तं सहत्थकुसुमावचअं उद्दिसिअ लवङ्गिआदुदीअं मालदी तं एव्व कुसुमाअरुज्जाणं आणइस्सदि। तदो अण्णोण्णदंसणं हविस्सदि त्ति। (अद्य कृष्णचतुर्दशीति जनन्या समं मालती शङ्करपुरं गमिष्यति। तत एवं किल सौभाग्यं वर्धत इति देवताराधननिमित्तं स्वहस्तकुसुमावचयम् उद्दिश्य लवङ्गिकाद्वितीयां मालतीं तदेव कुसुमाकरोद्यानमानेष्यति। ततः अन्योन्यदर्शनं भविष्यति इति) ॥ १८५॥
कामन्दकी— वत्सौ मालतीमाधवौ इतो निर्गत्य वृक्षगहने गम्यताम् उद्वाह— मङ्गलार्थम्। अस्मद्विहारिकायाः पश्चादुद्यानवाटः। सुविहितं तत्र वैवाहिकद्रव्यजातं अवलोकितया। भूयश्च—(मामा. ६.१९)