कामन्दकी— संवरणं हि तत्। पश्य—(मामा. १.१७)
बहिस्सर्वाकारप्रवणरमणीयं व्यवहरन् पराभ्यूहस्थानान्यपि तनुतराणि स्थगयति।
जनं विद्वानेकस्सकलमतिसन्धाय कपदै— स्तटस्थः स्वानर्थान् घटयति च मौनं च भजते॥ १८७॥
१४. प्रतापव्यावर्णनं यथा—(मामा. २.९)
व्यतिकरितदिगन्ताश्श्वेतमानैर्यशोभि— स्सुकृतविलसितानां स्थानमूर्जस्वलानाम्।
अकलितमहिमानः केतनं मङ्गलानां कथमपि भुवनेऽस्मिन् तादृशास्सम्भवन्ति॥ १८८॥
अवलोकिता— तुमं क्खु भअवदीए जास्सिं पओअणे णिउत्ता तत्थ को उत्तंदो। (त्वं खलु भगवत्या यस्मिन् प्रयोजने नियुक्ता तत्र को वृत्तान्तः?)
बुद्धरक्षिता— मए क्खु भअवदीए समादेसेण तासु तासु वीसंभकहासु ईरीसो तारिसो त्ति कदुअ मअरंदस्स उवरि पिअसहीए दूरमारोविदो परोक्खाणुराओ। एसो अ से मणोरहो अवि णाम तं वेक्खेअ ति। (मया खलु भगवत्यास्समादेशेन तासु तासु विस्रम्भकथासु ईदृशः तादृश इति कृत्वा मकरन्दस्योपरि प्रियसख्याः दूरमारोपितः परोक्षानुरागः। एष च तस्याः मनोरथः, अपि नाम तं पश्येयेति।)