भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 851 to 860 of 890 verses
भो भो मालत्यन्वेषिणः इयममात्यभूरिवसुमाश्वासयन्ती अप्रतिहतप्रज्ञा— चक्षुर्भगवती कामन्दकी समादिशति पर्यवष्‍टभ्यतामदः करालायतनम्।

नाघोरघण्टादन्यस्मात् कर्मैतद्दारुणादभूत्।

न करालोपहाराच्च फलमन्यद् विभाव्यते॥ १८९॥

(मामा. ५.३३)

१७. बन्धुरत्‍नापहारो यथा—

कामन्दकी — तत्रैव मकारन्दमदयन्तिकागमनं यावत् स्थातव्यम्।

माधवः — (सहर्षं) कल्याणोत्तरावतंसा कल्याणसम्पत्।

कलहंसः — दिट्ठिआ एव्वं णो हविस्स दि। (दिष्‍ट्या एवं नो भविष्यति।)

१८. मित्रोपग्रहो यथा—

अवलोकिता—भअवदि सो वि पासअरो माहवस्स वालमित्तं मअरंदो णंदणस्स भइणिं मदअंतिआं जइ समुव्वहइ तं वि माहवस्स दुइअं पिअं होदि। (भगवति, सोऽपि पार्श्वचरो माधवस्य बालमित्रं मकरन्दो नन्दनस्य भगिनीं मदयन्तिकां यदि समुद्वहति, तदपि माधवस्य दिृतीयं प्रियं भवति।)