भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 871 to 880 of 890 verses
अवलोकिता— तस्सिं खु सिरिपव्वदादो आअदस्स इदो णादिदूरासण्णमसाण— वासिणो साधअस्स मुंडधारिणो अघोरघंटणामहेअस्स अंतेवासिणी महाप्पहावा कवालकुंडला णाम अणुसझं आअच्छइ। तदो इअं पउत्ती। (तस्मिन् खलु श्रीपर्वतादागतस्य इतो नातिदूरासन्नश्मशानवासिनः साधकस्य मुण्डधारिणः अघोरघण्टनामधेयस्य अन्तेवासिनी महाप्रभावा कपालकुण्डला नाम अनुसन्ध्यं आगच्छति। तत इयं प्रवृत्तिः।)

२१. गूढदण्डातिचारो यथा—

कामन्दकी— वत्स मकरन्द, अनेनैव वैवाहिकेन मालतीनेपथ्येन अपवारितः प्रवर्तस्व परिणयायात्मनः (इति पटलकमर्पयति।)

मकरन्दः— यथाज्ञपयसि। यावदितः चित्रयवनिकामन्तर्धाय नैपथ्यं धारयामि।

(तथा करोति।)

२२. चारसमाधानं यथा—

बुद्धरक्षिता— संपदं अ तुवरंतकामो कामेदुं सपादपडणं अव्भत्थिअ पुणो बलामेडिअ अभिद्दवंतो मअरंदेण णिट्ठुरं पडिहरो जामादा। सो अं वेलक्खरोसावेसखलंतअक्खरो ओरुइदणअणपप्फुरंतवअणो (स) णिव्भरदुक्खिदो ण मे संपदं एदाण कोमारबंधकीए पओअणं ति ससपहं पइण्णं काऊण वासभवणादो णिग्गदो। ता एदेण पसंगेण मदअंतिअं आणीअ मअरंदेण संजोअइस्सं। (सम्प्रतं च त्वरमाणकामः कामयितुं सपादपतनमभ्यर्थ्य पुनर्वलात्कारेण अभिद्रवन् मकरन्देन निष्‍ठुरं प्रतिहतो जामाता। स च वैलक्ष्यरोषावेशस्खलदक्षरोऽवरुदितनयप्रस्फुरद्‍वदनो निर्भरदुःखितो न मे सामप्रतं एतया कौमारबन्धक्या प्रयोजनमिति सशपथं प्रतिज्ञां कृत्वा वासभवनात् निर्गतः। तस्मादेतेन प्रसङ्गेन मदयन्तिकाम् अनीय मकरन्देन संयोजयिष्यामि।)

२३. समाधिमोक्षो यथा—

अम्हहे सुसिलिट्ठमालदीणेवच्छलच्छीविप्पलद्धणंदणकरग्गहो अमच्चभूरिव— सुमंदिरे भअवदीवअणसंविहाणेहिं खेमेण गोवाविदो मअरंदो। अम्हे णंदणावासमुवगदा। अदो भअवदी णंदणं आणुच्छिअ णिआवसअं गआ। अज्ज णववहूघरप्पवेसिविरइदाकालकोमुदीमहूसवप्पमत्तपज्जाउलासेसपरिअणो पओसो अणुऊलइस्सदि अज्ज णो ववसिदं। (अहो सुश्लिष्‍टमालतीनेपथ्य— लक्ष्मीविप्रलब्धनन्दनकरग्रहोऽमात्यभूरिवसुमन्दिरे भगवतीवचनसंविधनैः खेमेण गोपायितो मकरन्दः। अहो नन्दनावासमुपगता। अतो भगवती नन्दनमापृच्छ्‌य निजावसथं गता। अद्य नववधूगृहप्रवेशविरचिताकालकौमुदीमहोत्सवप्रमत्तपर्याकुला— शेषपरिजनः प्रदोषोऽनुकूलयिष्यत्यद्य नो व्यवसितम्।)१

सैषा दूतविशेषाणामशीतिश्चतुरुत्तरा।

Showing 871 to 880 of 890 verses