कामन्दकी— नियुक्तैव हि मया तत्र तत्प्रियसखी बुद्धरक्षिता।
१९. सुहृद्भेदो यथा—(मामा. २.७)
गुणापेक्षाशून्यं कथामिदमुपक्रान्तमथवा कुतोऽपत्यस्नेहः कुटिलनयनिष्णातमनसाम्।
इदं त्वैदम्पर्यं यदुत नृपतेर्नर्मसचिवः सुतादानान्मित्रं भवतु स हि नो नन्दन इति॥ १९०॥
लवङ्गिका— जधा आणत्तं भअवदीए तं तह एव्व। अण्णहा तस्सिं वरे दुद्दंसणे अदिक्कंतजोव्वणे किं ति ण विआरिअं अमच्चेण। (यथाज्ञप्तं भगवत्या तत्तथैव। अन्यथा तस्मिन वरे दुर्दर्शनेऽतिक्रान्तयौवने किमिति न विचारितममात्येन?)
२०. चारज्ञानं यथा—(मामा.)
अवलोकिता— भअवदि सा दाणिं सोदामिणी समासादिदअच्चरिअमंत— सिद्धिप्पहावा सिरिपव्वदे कावालिअवदं धारेदि। (भगवति, सा इदानीं सौदामिनी समासादिताश्चर्यमन्त्रसिद्दिप्रभावा श्रीपर्वते कापालिकाव्रतं धारयति।) कामन्दकी— कुतः पुनारियं प्रवृत्तिः?
अवलोकिता— अत्थि एद्ध णअरीए महामसाणप्पएसे कराला णाम चामुंडा।
(अस्त्यत्र नगर्यां महाश्मशानप्रदेशे कराला नाम चामुण्डा)
कामन्दकी—अस्ति। या किल विविधजीवोपहारप्रियेति साहसिकानां प्रवादः।