गाढोत्कण्ठकठोरकेरलवधूगण्डावपाण्डुच्छदै— स्ताम्बूलीपटलैः पिनद्धफलितव्यानम्रपूगद्रुमाः।
तक्कोलीफलजग्धमुग्धविकिरव्याहारिणस्तद्धुवो भागाः प्रेङ्खितमातुलुङ्गवृतयः प्रेयो विधास्यन्ति वाम्॥ १८६॥
यतस्तत्रैव मदयन्तिकामकरन्दयो यावदागमनं स्थातव्यम्।
परस्पराभियोगादिषु अनागतप्रतीहारादिभिः च्छिद्रापिधानं सन्धिरक्षा।
यथा मालतीमाधवे बुद्धरक्षिता— अम्महे सुसिलिट्ठमालदीणेवच्छलच्छीविप्पलद्ध— णंदणकरग्गहो अमच्चभूरिवसुमंदिरे भअवदीए संविहाणेण खेमेण गोवाइदो
अज्ज मअरंदो। (अहो सुश्लिष्टमालतीनेपथ्यलक्ष्मीविप्रलब्धनन्दनकरग्रहः अमात्यभूरिवसुनन्दिरे भगवत्याः संविधानेन क्षेमेण गोपायितोऽद्य मकरन्दः।)
कामन्दकी— साधु सखे भूरिवसो साधु। 'प्रभवति निजस्य कन्यकाजनस्य महाराजः' इत्युभयलोकाविरुद्धमुपन्यस्तम्।
अवलोकिता— भअवदि, ण हु अमच्चो माहवस्स णामं वि जाणादि त्ति णिरवेक्खदा लक्खीअदि। (भगवती, न खलु अमात्यो माधवस्य नामापि जानातीति निरपेक्षता लक्ष्यते।)