विभाव्यते ननु स्थानमनिष्ठानां तदीदृशाम्॥ १८१॥
हन्त सम्प्रति निरस्त एव मे सन्देहः। तदपि नाम जीवन्तीमेनां सम्भावयेयम्। (इति परितः परिक्रामति) (सहसोपसृत्य खङ्गं प्रकोष्ठे निक्षिप्य)
दुरात्मन्नपेहि। प्रतिहतोऽसि कापालिकापस। (स्वगतं) अहो नु खलु भोस्तदेतत् काकतालीयं नाम। सम्प्रति हि मम— (मामा. ५. २८, ३०, ३१)
आः पापकर्मन् पाषण्डचण्डाल!
असारं संसारं परिमुषितरत्नं त्रिभुवनं निरालोकं लोकं मरणशरणं बान्धवजनम्।
अदर्पँ कन्दर्पँ जननयननिर्माणमफलं जगज्जीर्णारण्यं कथमसि विधातुं व्यवसितः॥ १८३॥