मकरन्दः— इयमेव नेदीयसां प्रकृतिरभ्युदयानाम्। यथा च—
माधवः— भगवति सुलभमपि बह्वनर्थमतिसङ्कटं हि एतद्वयस्यस्य।
कामन्दकी— आः! कस्त्वमस्यां चिन्तायाम्।
मकरन्द— वयस्य अतिकातरोऽसि। किमेतत्। ननु स्वस्थ एवास्मि।
मालती— (माधवस्य ललाटे हस्तं दत्वा) दिट्ठिआ वड्ढसि! (दिष्टया वर्धसे)॥ १७५॥
(माधवः)— महाभागे न भेतव्यं न भेतव्यम्— (मामा. ५. २६)
मरणसमये त्यक्ताशङ्कप्रलापनिरर्गल—
प्रकटितनिजस्नेहः सोऽयं सखा पुर एव ते।