भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 761 to 770 of 890 verses
कामन्दकी—न तर्हि प्रागवस्थायाः (भूरिवसुः) परिहीयते। तदिदमायुष्मन्तं बोधयामि। यदैव नौ विद्याग्रहणाय नानादिगन्तसाहचर्यमासीत् तदैव अस्मत्सौदामिनीसमक्षं भूरिवसुदेवरातयोः वृत्तेयं प्रतिज्ञा, अवश्‍यमावाभ्यां अपत्यसम्बन्धः कर्तव्य इति। इह तु वाक्प्रतिष्ठानि देहिनां व्यवहारतन्त्राणि। वाचि पुण्यापुण्यहेत्ववस्थाः सर्वजनानां आपतन्ति। इदं तावत्प्रसिद्धमेव— 'यदुत नन्दनाय मालती प्रार्थयमानं भूरिवसुर्नृपतिमुक्तवान्, प्रभवति निजस्य कन्यकाजनस्य महाराज' इति। सम्प्रत्येव चागत्य पुरुषेणावेदितम्। यत्किल राज्ञा पद्यावतीश्वरेण अमात्यभूरिवसोरुपरि विश्वासं अस्मासु च प्रसादं सबहुमानमातन्वता भगनमागत्य नन्दनाय मालती प्रतिपादिता। तत्र भूरिवसोः वाग(नृतैव)। न खलु महाराजस्य निजा कन्यका(मालती)। कन्यादानेषु च नृपतयः प्रमाणमिति नैवंविधः धर्माचारसमयः तस्मादविचिकित्सितव्यमेतत्। अपि च वत्स किमिति मामनवधानां मन्यसे? पश्‍यतु हि भवान्। (मामा. ४.१ / २)

मा वां सपत्‍नेष्वपि नाम तद् भूत् पापं यदस्यां त्वयि वा विशङ्कयम्।

तत् सर्वथा सङ्गमनाय यत्‍न: प्राणव्ययेनापि मया विधेयः॥ १७०॥

यथा वा—दुर्लभा न बुद्धरक्षितायाः प्रियसखी भवतः।

अपि च—(मामा. ४. ९)

प्रमथ्य क्रव्यादं मरणसमये रक्षितवतः परिष्वङ्गं लब्ध्वा तव कथमिवान्यत्र रमताम्।

तथा च व्यापारः कमलनयनाया नयनयो— स्त्वयि व्यक्तस्नेहः स्तिमितरमणीयश्चिरमभूत्॥ १७१॥

यथा वा—वयस्य माधव सर्वथा समाश्वसिहि।

या कौमुदी नयनयोर्भवतस्सुजन्मा तस्या भवानपि मनोरथबद्धबन्धुः।

तत्सङ्गमं प्रति सखे! नहि संशयेऽस्ति यस्मिन्विधिश्च मदनश्च कृताभियोगः॥ १७२॥

Showing 761 to 770 of 890 verses