त्वं वत्सलेति कथमप्यवलम्बितात्मा सत्यं जनोऽयमियतो दिवसाननैषीत्।
आनद्धकङ्कणकरप्रणयप्रसाद— मासाद्य नन्दतु चिराय फलन्तु कामाः॥ १६७॥
कहं दुदिअआमविच्छेदपडहो ताडिआदि। ता जाव णंदणं णिब्भच्छिअ मालदीए उअरि अणुऊलइस्सं। (कथं द्वितीययामविच्छेदपटहः ताडयते। तद् यावत् नन्दनं निर्भर्त्स्य मालत्या उपरि अनुकूलयिष्यामि।)
(मदयन्तिका उत्थातुमिच्छति। मुखमुद्घाटय तां हस्ते गृह्णाति।)
मदयन्तिका—सहि मलादि पडिबुद्धासि? (सखि, मालति, प्रतिबुद्धासि?) (विलोक्य सहर्षसाध्वसं) अंहो अण्णं एव्व किं वि एदं वट्टदि। (अहो अन्यदेव किमपि एतद् वर्तते।)
रम्भोरु संहर भयं क्षमते विकार— मुत्कम्पिनस्स्तनभरस्य न मध्यभागः।
इत्थं त्वयैव कथितप्रणयप्रसाद सङ्कल्पनिर्वृतिषु संस्तुत एष दासः॥ १६८॥ (मामा. ७.१. / २)