तदास्यतां किञ्चिदाख्येयमाख्यातुकामास्मि। अस्ति तावदेकदा प्रसङ्गतः कथित एव माधवाभिधानः कुमारः। स खलु मन्मथोद्यानयात्रादिवसात् प्रभृति दुर्मनायमानः परवानिव शरीरोपतापेन। यावदश्रृणवं मालत्येवास्य मन्मथोन्मादहेतुः। इति नायकानुरागश्रवणम्।
यदि तद्विषयोऽनुरागबन्धः स्फुटमेतद्धि फलं गुणज्ञतायाः।
इति नन्दितमप्यवस्थयास्या हृदयं दारुणया विदीर्यते मे॥ १६३॥
मालती— अंमहे एसो वि एत्थ एव्व। (अहो, एषोऽप्यत्रैव।)
माधवः—हन्त पुण्यवानस्मि। यदहमवितर्कितोपनतदर्शनोल्लसितया अनया—
अविरलमिव दाम्ना पौण्डरीकेण नद्धः स्नपित इव च दुग्धस्त्रोतसा निर्झरेण।
कवलित इव कृत्स्नं चक्षुषा स्फारितेन प्रसभममृतसेकेनेह सान्द्रेण सिक्तः॥ १६४॥