देशकालस्योपसलब्धये मिथ्यामाध्यस्थ्यमुग्धत्वानपेक्षत्वार्जवत्वादिप्रशमनैः प्रयोज्यादीनामतिसन्धानं प्रतारणम्, यथोच्यते—(कासू. ५. ४. ६३)
विधवेक्षणिका दासी भिक्षुकी शिल्पकारिका।
प्रवेशमाशु विश्वासं दूतीकार्यँ न विन्दति॥ १६१॥
सा प्रयोज्य़ायां प्रागेव सम्भाष्य द्रष्टव्यदर्शनफलानि लोचनानीत्युक्त्वा रामणीयकदर्शने नियोजयेत्। स्वभवनस्थामेव च ब्रूयात्—
'अहममुष्यां क्रीडायां ते राजभवनोपवनदीर्घिकासरित्परिसरस्थानानि रमणीयानि दर्शयिष्यांमि'।
ततश्च प्रवालकुट्टिमं मणिभूमिकं वृक्षवाटिकां मृद्वीकामण्डपं समुद्रगृहकं, प्रासादात् गूढभित्तिसञ्चारान् चित्रगृहाणि क्रीडामृगान् यन्त्राणि शाकुनिकान् सव्याघ्रसिंहपञ्जरादीनि यानि यानि पुरस्तादुपवर्णितानि स्युः तान्यस्याः सानुप्रशंसमादरेण दर्शयेत्।
एकान्ते च तद्गतानुरागशंसी चित्रफलकादिकं अन्यद् वा प्रकाशयेत्।
नायकानुरागं वा श्रावयेत्।