मूर्ध्ना जाम्बवतोऽभिवाद्य चरणावापृच्छ्य सेनापती— नाश्वास्याश्रुमुखान् मुहुः प्रियसखान् प्रेष्यान् समादिश्य च।
आरम्भं जगृहे महेन्द्रशिखरादम्भोनिधेर्लङ्घने रंहस्वी रघुनाथपादरजसामुच्चैः स्मरन् मारुतिः॥ १९८॥
इति पताकायाः (राच. १.५.६७)
मैनाकः किमयं रुणद्धि गगने मन्मार्गमव्याहतं शक्तिस्तस्य कुतः स वज्रपात/पतनाद् भीतो महेन्द्रादपि।
तार्क्ष्यः सोऽपि समं निजेन विभुना जानाति मां रावण— मा ज्ञातं स जटायुरेष जरयाक्लिष्टो वधं वाञ्छति॥ १९९॥
इति प्रकर्याः (उराच. २.३१)
यातो विक्रमबाहुरात्मसमतां प्राप्तेयमुर्वीतले इत्यादि;॥ २००॥ (रत्ना. ४.१९)
NOTES pg=1315! १—२. अस्मत्संस्करणे १९.२४,२५.
(विचारः) एवमर्थप्रकृतीनां साधर्म्यवैधर्म्याभ्याम् अवगतत्वस्य हानोपादानोपेक्षाबुद्धिहेतवे विचारः। स च पञ्चाङ्गः — १. कर्मणामारम्भोपायः, २. पुरुषद्रव्यसम्पत्, ३. देशकालविभागः, ४. विनिपातप्रतीकारः, ५. कार्यसिद्धिश्चेति।