भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 701 to 710 of 765 verses
मूर्ध्ना जाम्बवतोऽभिवाद्य चरणावापृच्छ्‌य सेनापती— नाश्वास्याश्रुमुखान् मुहुः प्रियसखान् प्रेष्यान् समादिश्य च।

आरम्भं जगृहे महेन्द्रशिखरादम्भोनिधेर्लङ्घने रंहस्वी रघुनाथपादरजसामुच्चैः स्मरन् मारुतिः॥ १९८॥

इति पताकायाः (राच. १.५.६७)

मैनाकः किमयं रुणद्धि गगने मन्मार्गमव्याहतं शक्तिस्तस्य कुतः स वज्रपात/पतनाद् भीतो महेन्द्रादपि।

तार्क्ष्यः सोऽपि समं निजेन विभुना जानाति मां रावण— मा ज्ञातं स जटायुरेष जरयाक्लिष्टो वधं वाञ्छति॥ १९९॥

इति प्रकर्याः (उराच. २.३१)

यातो विक्रमबाहुरात्मसमतां प्राप्‍तेयमुर्वीतले इत्यादि;॥ २००॥ (रत्‍ना. ४.१९)

(पृ.६३९) इति कार्यस्य।

NOTES pg=1315! १—२. अस्मत्संस्करणे १९.२४,२५.

(विचारः) एवमर्थप्रकृतीनां साधर्म्यवैधर्म्याभ्याम् अवगतत्वस्य हानोपादानोपेक्षाबुद्धिहेतवे विचारः। स च पञ्चाङ्गः — १. कर्मणामारम्भोपायः, २. पुरुषद्रव्यसम्पत्, ३. देशकालविभागः, ४. विनिपातप्रतीकारः, ५. कार्यसिद्धिश्चेति।

Showing 701 to 710 of 765 verses