प्रिया मुञ्चत्यद्य ध्रुवमसहना जीवितमसौ प्ररूढस्य प्रेम्णः स्खलितमविषह्यं हि भवति॥ १५५॥
७. मानसम्पर्को यथा—(रत्ना. २.२१)
भ्रूभेदे सहसोद्गतेऽपि वदनं नीतं परां नम्रता— मीषन्मां प्रति भेद॥ १५६॥
तदेवाजिह्माक्षं मुखमविशदास्ता गिर इमाः स एवाङ्गक्षेपो मयि सरसमाश्लिष्यति तनुम्।
यदुक्तप्रत्युक्तं तदपटु शिरःकम्पनपरं प्रिया मानेनाहो पुनरपि१ कृता मे नववधूः॥ १५७॥
९. मानस्यागमो यथा—(गास. १.८८)
जाणइ जाणावेउं अणुणअ—विद्दविअ—माणपरिसेसं।
पइरिक्कम्मि वि विणआवलंहणं स च्चिअ कुणंती॥ १५८॥