यथा हि पयोबिन्दुश्च्योतन् पयोऽभिष्यन्दलक्षणायाः क्रियाया अविच्छेदहेतुः, यथा वा घृतबिन्दुरग्निज्वलनलक्षणायाः क्रियायाः विवृद्धये यस्स्यादेवं विच्छिन्नेषु कथाशरीरेषु योऽनुसन्धाता स बिन्दुरिति।
३. कथाशरीरव्यापिनो नायकस्य प्राधान्येन यदुपकारकं स्वेन फलेन फलवत् सा पताका। यथोच्यते—(नाशा. १९.२४)२
यस्या वृत्तं परार्थं स्यात् प्रधानस्योपकारकम्।
प्रधानबद्धफलवत् सा पताकेति कीर्तिता॥ १९३॥
यथाहि पताका नायकस्य चिह्नरूपा प्रकर्षशोभायै भवन्ती स्वस्यापि प्रकर्षशोभायै भवति एवमितिवृत्तेषु यदुपनायकादेः चरितं तत् प्रधानस्य आत्मनश्च शोभाप्रकर्षाय जायमानं पताकेत्युच्यते। पताकैवाफलवत्यनु—
NOTES pg=1314! १—२. अस्मत्संस्करणे १९.२२,२३.
बन्धविहीना च प्रकरी। यथोच्यते—(नाशा. १९.२५)१
फलं प्रकल्पते यस्याः परार्थायैव केवलम्।
अनुबन्धविहीनां तां प्रकरीति विनिर्दिशेत् ॥ १९४॥
४. प्रकरीव प्रकरी। लघुर्हि प्रकरः प्रकरीत्युच्यते। स तु पुष्पादीनामेव स्यात्। स च पुष्पप्रकरः परार्थोपकारकादेश्शयनस्थानस्यान्यस्य वा शोभायै भवति। एवं महाप्रबन्धस्य यः ऋतुवर्णनादिरन्यो वा कोऽपि तद्विधो व्यापारः सा प्रकरी।