तन्मनसि चिन्तामयमनुस्मरणात्मकं च।
दृशि प्रजागरीयं, विषयव्यावृत्त्यात्मकं, च।
वक्त्रे निर्लज्जतामयमुन्मादात्मकं च।
वाचि गुणकीर्तनमयं विलापात्मकं च।
वपुषि कार्श्यमयं, व्याध्यात्मकं च।
चेष्टायां जाड्यमयं, मूर्च्छात्मकं च।
तच्च स्थानात् स्थानान्तरेऽवतिष्ठमानम् अवस्थेत्याचक्षते। तत्र—
सा सुन्दरीति तरुणीति तनूदरीति मुग्धेति मुग्धवचनेति मुहुर्मुहुर्मे।