१. त्रुटिशंसिनो राघवस्य तु 'वनान्तमद्भुतमि'—त्यद्भुता पूर्त्तिः।
अभूद् वरः कण्टकितप्रकोष्ठः स्विन्नाङ्गुलिस्संववृते कुमारी।
तस्मिन् द्वये तत्क्षणमात्मवृत्तिस्समं विभक्तेव मनोभवस्य॥ १८४॥
द्वयोः प्रकृतिसम्बन्धित्वं यथा—(कुसं. ७.६६, रघु. ७.१४)
परस्परेण स्पृहणीयशोभं न चेदिदं द्वन्द्वमयोजयिष्यत्।
अस्मिन् द्वये रूपविधानयत्नः पत्युः प्रजानां विफलोऽभविष्यत्॥ १८५॥
द्वयोर्भावसम्बन्धित्वं यथा—(रघु. १.४६)
काप्यभिख्या तयोरासीद् व्रजतोश्शुद्धवेषयोः।
हिमनिर्मुक्तयोर्योगे चित्राचन्द्रमसोरिव॥ १८६॥
द्वयोर्द्रव्यसम्बन्धित्वं यथा—(कुसं. ७.७५)