आश्लेषिणः पृथुतरक्लमशीतपीतमायामिनीर्घनमुदो रजनीर्युवानः।
ऊर्वोर्मुहुर्वलयबन्धनसन्धिलोलपादान्तसंवलिततूलपटाः स्वपन्ति॥ २०६॥
लघुनि तृणकुटीरे क्षेत्रकोणे यवानां नवकलम-१ पलालस्रस्तरे सोपधाने।
परिहरति सुषुप्तं हालिकद्वन्द्वमारात् कुचकलशमहोष्माबद्धरेखस्तुषाऱः॥ २०७॥
व्रीहिः स्तम्बकरिः, प्रभूतपयसः प्रत्यागता धेनवः, प्रत्युज्जीवितभिक्षुणा भृशमिति ध्यायन्नपेतान्यधीः।
सान्द्रोशीरकुटुम्बिनीस्तनभरव्यालुप्तघर्मक्लमो देवे नीरमुदारमुज्झति सुखं शेते निशि ग्रामणीः॥ २०८॥
चिरतररतिखेदप्राप्तनिद्रासुखानां चरममपि शयित्वा पूर्वमेव प्रबुद्धाः।
अपरिचलितगात्राः कुर्वते न प्रियाणामशिथिलभुजचक्रश्लेषभेदं तरुण्यः॥ २०९॥