(६३) सम्प्रयोगविरामो रतावसानं यथा— (माघ. १०.८०,८८,८२,८४)
प्राप्य मन्मथमदादतिभूमिं दुर्वहस्तनभराः सुरतस्य।
शश्रमुः श्रमजलार्द्रललाटश्लिष्टकेशमसितायतकेश्यः॥ २०२॥
विश्रमार्थमुपगूढमजस्रं यत् प्रियैः प्रथमरत्यवसाने।
योषितामुदितमन्मथमादौ तद् द्वितीयसुरतस्य बभूव॥ २०३॥
प्रेक्षणीयकमिवेक्षणमासां ह्रीविभङ्गुरविलोचनपाताः।
सम्भ्रमद्रुतगृहीतदुकूलच्छाद्यमानवपुषः सुरतान्ताः॥ २०४॥
श्लिष्टचन्दनविशेषकभक्तिभ्रष्टभूषणकदर्थितमाल्यः।
सापराध इव मण्डनमासीदात्मनैव सृदृशामुपभोगः॥ २०५॥
(६४) रतावसाने सुखस्वापो निद्रानुभवः, यथा—(सक. ५.४७०)