घूर्णमाननयनं स्खलत्कथं/चं स्वेदबिन्दुमद—कारणस्मितम्।
आननेन न तु तावदीश्वरश्चक्षुषा चिरमुमामुखं पपौ॥ १९५॥
नाभिदेशनिहितः सकम्पया शङ्करस्य रुरुधे तया करः।
तद्दुकूलमथ चाभवत् स्वयं दूरमुच्छ्वसितनीविबन्धनम्॥ १९६॥
घोलइ तहिं तहिं चिअ ण तरइ तरुणीए लंघउं मज्झ।
णाभिमहावत्तभमाडिओ व्व हत्थो पिअअमस्स॥ १९७॥
(घूर्णति तत्र तत्रैव न शक्नोति तरुण्या लङ्घितुं मध्यम्।
नाभिमहावर्तभ्रान्त इव हस्तः प्रियतमस्य॥)
१. मदस्य च = मदनस्येति राघवः, मदनस्य चेति जोशेरः।
(६२) आलिङ्गनादिप्रयोगो रतम्, यथा—(माघ. १०.४२)