(१९) पुरस्रीसम्भ्रमो नागरिकाक्षोभः, यथा—
संभरिअं पि ण गण्हइ गहिअं पि ण संठवेइ अंगम्मि।
ठविअं पि अंसुअं ण अ धरेइ रहसेण जुअइजणो॥ १८७॥
(संस्मृतमपि न गृह्णाति गृहीतमपि न संस्थापयत्यङ्गे।
स्थापितमपि अंशुकं न च धारयति रभसेन युवतिजनः॥)
सोवाणक्कमणसगूससत्तमज्जक्कवासमारुहइ।
कमिवसविहउंतबलिइअं कामिणीसत्थो॥ १८८॥
(२०) भवनप्रवेशो गृहोपगमनं, यथा—
अथाजगाम सावित्री सत्त्वसम्पत्समन्विता।
वरेण धर्मराजस्य सह पत्या स्वमन्दिरम्॥ १८९॥