निर्वृत्ते च समन्त्रहोमसुभगारम्भे विवाहोत्सवे तत्रान्योन्यसमागमे प्रमुदिताः सर्वेऽपि ते रेमिरे॥ १८३॥
अग्रेसरीभवति/तु काञ्चनचक्रमेतदेष द्विपश्च धवलो दशनैश्चतुर्भिः।
श्यामो हयो मलयवत्यपि वल्लभा ते रत्नान्यमूनि परिभावय चक्रवर्त्ती॥ १८४॥
(१८) स्थानीयासादनं पुरप्रवेशः, यथा—
ततः प्रहृष्टः प्रतिलभ्य कान्तां प्रणम्य नागान्निजमाजगाम।
स शोभमानः स्वपुरं तमश्वमारुह्य सञ्चि ॰ ॰ ॰ तमभ्युपेतम्॥ १८५॥
समू/मौलरक्षोहरिमिश्रसैन्यस्तूर्यस्वनानन्दितपौरवर्गाम्।
विवेश सौधोद्गतलाजवर्षामुत्तोरणामन्वयराजधानीम्॥ १८६॥