प्रणम्य भूपं पितरं क्रमेण मनोरमाद्या जननीर्ववन्दे॥ १७६॥
(१४) पित्रादिवात्सल्यं गुरुजनस्नेहा, यथा—(कादकसा. ८.९३, ९४)
अथ विलासवती समनोरमा स्रुतपयोधरदुग्धकणावली।
सुतवपुःपरिरम्भमहोत्सवं फलितसर्वमनोरथमन्वभूत्॥ १७७॥
तारापीडोऽथ पादानतमनवरतप्रस्रुतानन्दबाष्प— श्चन्द्रापीडं भुजाभ्यां कथमपि सहसोत्थाप्य कण्ठे गृहीत्वा।
शापेनात्रावतीर्णो यदि तदपि भवानुत्तमो लोकपालः प्रख्याप्येति प्रतीपं प्रणततनुरसावस्य पादौ ववन्दे॥ १७८॥
(१५) गुर्वादिप्रशंसा ज्ञात्यभिनन्दनम्, यथा—(रघु. १४.६)
उत्तिष्ठ वत्से! ननु सानुजोऽसौ वृत्तेन भर्त्रा शुचिना तवैव।
कृच्छ्रं महत् तीर्ण इति प्रियार्हां तामूचतुस्ते प्रियमप्यमिथ्या॥ १७९॥
शापादसि प्रतिहता स्मृतिलोपरूक्षे भर्तर्यपेततमसि प्रभुता तवैव।