माआ१ मोहम्मि गए सुए अ पवआणं समरसण्णाहरवे।
जणअतणआए णाअं/दिद्ठं तिअडा-णेहाणुराअभणिअस्स फलं॥ १७०॥
(मायामोहे गते श्रुते च प्लवगानां समरसन्नाहरवे।
जनकतनयया ज्ञातं त्रिजटास्नेहानुरागभणितस्य फलम्॥)
(११) यथोचितं विधायानुष्ठानम् इतिकर्तव्ययोगः, यथा—(कादकसा. ८.८८)
उत्थाय त्वरितोपसृत्य च महश्वेतां परिष्वज्य सा प्रत्यक्षीकृतपुण्डरीकपदवीं कृत्वा च लब्धोत्सवाम्।
दिष्ट्या वर्धयितुं न्ययुङ्क्त रभसेनाहूय केयूरकं तारापीडतपोवने परिजनं पित्रोर्गृहे चापरम्॥ १७१॥
मुनेरवभृथावधिः पितुरमुष्य सिद्धेः कृता कृतस्त्वमपि सस्मृतस्वतनुरद्य तच्छासनात्।
१. 'पलधणुर(खण्डितम्) माआ' —राघवः तदुज्झितमलीमसेदृशशरीरयोगौ युवां निजेन वपुषाधुनानुभवतं प्रियासङ्गमम्॥ १७२॥