श्रृङ्गारप्रकाशे पञ्चत्रिंशः प्रकाशः
तत्र रतिप्रकर्षनिमित्ताभिलषणीयालिङ्गनाद्यनवाप्तिहेतवः मानागमप्ररोदनादयः सम्भोगशब्दवाच्याः भवन्ति।
कः पुनरत्र समासः ? षष्ठीतत्पुरुष एव।
का वृत्तिः? प्रथमानुरागादनन्तरवदनुत्सृष्टस्वार्थैवेत्यत्र युक्तम्।
तत्र विस्त्रम्भणादीनां प्रथमानुरागस्य विद्यमानत्वात्। इह तु माननिवृत्तौ मानाव/पगमादयः जायन्ते। अन्वयाद् विशेषणं भविष्यति। तद्यथा— घृतघटः, तैलघटः इति। निषिक्तेऽपि घृते तैले वा (तत्र घटो) विशेषणं भविष्यति।
तद्यथा—(अयं) घृतघटः, अयं तैलघटः इति। भवति हि तत्र या च यावती वा अर्थमात्रा इहापि सर्वं तत्तुल्यमेव, सकषायैरेव वाक्यैर्नायकति (रस्काराँ)स्तृदन्ती(ती) (नायिका) शयनीयं गच्छेत्। किञ्च—
उन्नमय्य सकचग्रहमास्यं चुम्बति प्रियतमे हठवृत्त्या।