हुंहु मुञ्च मम मामिति मन्दं जल्पितं जयति मानवतीनाम॥ १॥
ननु च अन्वयग्रहणेनान्वयव्यतिरेकयोः स्मारितोऽस्ति। ततश्च निश्चितमेभिर्मानापगमादिभिर्मानशब्दार्थैरेव भवितव्यम्। तथा हि— प्रथमानुरागानन्तर इत्युक्ते कश्चित् शब्दश्श्रूयते। प्रथमानुरागेत्यनन्तरेति च प्रतीयमानविभागः। अर्थोऽपि कश्चिद् गम्यते। विस्त्रम्भणादिरवधिमत्त्वं च।
मानानन्तर इत्युक्ते कश्चिच्छब्दभागो हीयते कश्चिदुपजायते। कश्चिदन्वयी प्रथमानुरागो हीयते, मानेत्युपजायते, अनन्तरेत्यन्वयी। तेन मन्यामहे यच्छब्दयोगो१ हीयते तस्यासावर्थो, योऽर्थो हीयते य उपजायते तस्यासावर्थोऽर्थ उपजायते, योऽन्वयी तस्यासावर्थो योऽर्थोऽन्वयी।
१. 'यच्छन्दगो' इति राघवः, यच्छब्दयोगो जो.
नैवं, यतोऽनन्यथासिद्धाभ्यामेवान्वयव्यतिरेकाभ्यां शब्दार्थयोः सम्बन्धा— वधारणम्, अनन्यथासिद्धौ चेमौ। तथा हि यत्र बृंहितं हीयते, हेषितमुपजायते रेणुचक्रमन्वयि तत्र हस्तिनो हीयन्ते पिपीलिकान्वयिन्यः; न चैतावता रेणुचक्रस्य पिपिलिका अन्वयिन्यो भवन्ति, यत्र वा क्षीरं हीयते दध्युपजायते पात्रमन्वयि तत्र माधुर्यं हीयते अम्लतोपजायते तृप्तिरन्वयिनी। न चैतावता पात्रस्य तृप्तिः कार्या भवति। अवधृतं हि सामर्थ्यमन्वयव्यतिरेकाभ्यां प्रविभज्यते। यथा लोकेऽवधि (बधिरोऽ)पि चक्षुष्मानालोकयति, सत्यपि श्रोत्रे उपहतचक्षुर्नालोकयति रूपमित्यन्वयव्यतिरेकाभ्यां चक्षुः—श्रोत्रसन्निधाने रूपालोकनं चक्षुष एव व्यवस्थाप्यते न श्रोत्रस्य। यस्य च केवलस्य योऽर्थोऽवधृतः पदान्तरसन्निधानेऽपि स एव। न हि रसनमसन्निधौ दर्शनस्य, मधुरादिव्यञ्जकं दर्शनसन्निधौ नीलादिव्यक्तिसामर्थ्यं प्रतिलभते। प्रथमानुरागशब्दस्य च केवलस्योत्कण्ठादिषु मानशब्दस्येर्ष्यायितादिषु अनन्तरशब्दस्य पुनरवधिमत्स्वेव सामर्थ्यमवधृतम्। तेषां तावानेवार्थो भवति, यः पुनः पदयोरितरेतरोपश्लेषात् विस्त्रम्भणादिर्मानशैथिल्यादिर्वा अवधिमद्विशेषोऽभ्यधिकः प्रतीयते वाक्यार्थः स भवतीति।
(१)मानशैथिल्यं, (२)मानापगमलिङ्गानि, (३)मानापह्नवः, (४)मानापगमः,
(५)प्ररोदनं, (६)प्रियाभ्युपपत्तिः, (७)मुधाप्रतिषेधः, (८)परिसान्त्वनानि, (९)चित्रचाटूक्तयः