तत्र प्रथमानुरागानन्तरे रतिप्रकर्षनिमित्ताभिलक्षणीयाद्यालिङ्गनान्यवाप्तिहेतवो विस्रम्भशयनोपक्रमादयः समाननायकयोः परिजनादेश्च चेष्टाविशेषाः सम्भोगवाच्या भवन्ति।
षष्ठीलक्षणस्तत्पुरुषः 'प्रथमानुरागस्यानन्तरः प्रथमानुरागानन्तर' इति; कालवृत्तिरनुत्सृष्टस्वार्था; न ह्यत्र नायकौ मिथः सङ्गतावपि प्रथमानुरागमुत्सृजतः। युक्तं पुनर्यदनुत्सृष्टस्वार्थपरार्थाभिधानरूपा वृत्तिः स्यात्। अवश्यं ह्यनेन परस्यार्थमभिदधता स्वार्थ उत्स्रष्टव्यः।
बाढं युक्तम्। एवं हि दृश्यते लोके भिक्षुको यद्द्वितीयां भिक्षामासाद्य पूर्वां नोत्सृजति। सञ्चयायैव यतते। एवं तर्हि द्वयोर्द्विवचनं प्राप्नोति।
कस्या विभक्तेः? षष्ठ्याः।
न षष्ठीसमर्थो नान्तरः। तर्हि प्रथमायाः।
न प्रथमासमर्थः प्रथमानुरागः, सम्बन्धाधिक्यात्। अभिहितः सोऽर्थोऽन्तर्भूतः प्रातिपदिकार्थः सम्पन्न इति सामर्थ्यं भविष्यति।
नैवम्— प्रथमानुरागानन्तर इत्येतस्मात् सर्वदा यद्विभक्त्योत्पत्तव्यं, तेन च समुदायेनैकोऽर्थपिण्डो मृत्पिण्ड इवाविभागापन्ना पांसूदकविभागोऽवयवार्थशक्त्यनुगृहीतं (/हीतः) पृथग्व्यपदेश्यावयवशक्तिरभिधीयते। तस्मिंश्च समुदायार्थे एकत्वं समवेततोऽविद्यमानायामप्यवयवसङ्ख्यायां तदाश्रया सुबुत्पत्तिर्न भवति।
((१). विस्रम्भणम्, (२) उपक्रमः), (३) विस्रम्भः, (४) प्रेक्षोदीक्षणं, (५) परिहारः, (६) परिहारविलासाः, (७) कन्दुकक्रीडा, (८) केलीद्यूतानि, (९) ऋतूपयमः, (१०) ॰ ॰ ॰ चारः, (११) समायातं२, (१२) कालावस्थानुभवः, (१३) पूर्वाह्िणकं, (१४) माध्याह्निकं, (१५) आपराह्िणकम्, (१६) अस्तमयः(अस्तः), (१७) सन्ध्या, (१८) तमः, (१९) चन्द्रोदयः, (२०) ज्योत्स्ना, (२१) प्रादोषिकं, (२२) निशीथः, (२३) रात्रिपरावृत्तिः, (२४) प्रभातिकं, (२५) वनविहारगमनं, (२६) वनविहारः, (२७) पुष्पापचयः, (२८) श्रमानुभवः, (२९) प्रच्छायादिसेवा, (३०) जलक्रीडा, (३१) नेपथ्ययोगाः(नैपथ्यप्रयोगाः), (३२) क्रीडापर्वतविहारः, (३३) एकशाल्मली, (३४) नवलतिका, (३५) पाञ्चालानुयानं(/तं), (३६) नवपत्रिका, (३७) कदम्बयुद्धानि, (३८) विसखादिका(अभ्यूषखादिकेक्षुभक्षिका)३, (३९) इन्द्रोत्सवः, (४०)कौमुदीप्रचारः, (४१) यक्षरात्रिः, (४२) अष्टमीचन्द्रकः, (४३) कुन्दचतुर्थी, (४४) सुवसन्तः (/सुवसन्तकः), (४५) सहकारभञ्जिका, (४६) दोलाविलासः, (४७) उदकक्ष्वेलिका, (४८) मदनोत्सवः, (४९) गृहप्रत्यागमनं, (५०) सहायव्यापारः, (५१) प्रसाधनग्रहणं, (५२) गोष्ठीविहारः, (५३) वासगृहोपगमनम्, (५४) अभिसारिकाप्रतीक्षणं, (५५) दूतीविसर्जनं, (५६) स्वयं वा गमनम्, (५७) आगतोपचारः, (५८) परिचरणं, (५९) विसर्जनं, (६०) कञ्जुकादिमोक्षः, (६१) रतारम्भः, (६२) रतं, (६३) रतावसानं, (६४) निद्रानुभव इति चतुष्षष्टिः। तत्र—