१. द्र. पृ. १५५० । २. 'कन्दुकक्रीडा, केलीद्यूतानि, ऋतूपयमः॰॰॰चारः, समायातम्' इत्येतेषामुदाहरणानि नोपलभ्यन्ते। ३. द्र. पृ. १५६७ ।
(१) समागतायाः सम्प्रयोगार्थः प्रश्वासनापूर्वरङ्गो विस्रम्भणं यथा—(सक. ५.९०)
कस्य नो कुरुते बाले पिपासाकुलितं मनः।
अयं ते विद्रुमच्छायो मरुमार्ग इवाधरः॥ १॥
अक्षि ते पुष्परजसा वातोद्धूतेन दूषितम्।
मुखानिलस्य मे तन्वि! तदर्पयितुमर्हसि॥ २॥
निश्च्योतन्ते सुतनु! कबरीबिन्दवो यावदेते यावन्मध्यस्स्तनमुकुलयोरार्द्रभावं जहाति।
यावत् सान्द्रस्वतनुपुलकोद्भेदवत्यङ्गयष्टिः तावद् गाढं वितर सकृदप्यङ्कपालिं प्रसीद॥ ३॥
दग्धं चिराय मलयानिलचन्द्रपाते सन्तर्पितं तु परिरभ्य वपुस्त्वया मे।