आमत्तकोकिलरुतव्यथिता तु हृद्याम् अद्य श्रुतिः पिबतु किन्नरकण्ठि! वाचम्॥ ४॥
(२) विस्रब्धायाः सम्प्रयोगार्थमभियोगातिशयत उपक्रमो यथा— (उराच. १.३४)१
जीवयन्निव समूढसाध्वसस्वेदबिन्दुरधिकण्ठमर्प्यताम्।
बाहुरैन्दवमयूखचुम्बितस्यन्दिचन्द्रमणिहारविभ्रमः॥ ५॥
अपरिक्षतकोमलस्य यावत् कमलस्येव नवस्य षट्पदेन।
अधरस्य पिपासता मया ते सदयं सुन्दरि! गृह्यते रसोऽस्य॥ ६॥
नाभिदेशनिहितः सकम्पया शङ्करस्य रुरुधे तया करः।
तद्दुकूलमथ चाभवत् स्वयं दूरनिःश्वसितनीविबन्धनम्॥ ७॥