१. प्रथमादिश्लोकेषु च पालनादिनियमः 'मधु द्विरेफ' इत्यादि। इदं हि सा प्रेमपालनोपनिषत्, यद् अन्योन्यानुपपत्त्या एकत्र पानभोजनमानुकूल्यतश्च परिचर्योति। तच्च प्रथमश्लोके सहचरीचित्तानुवृत्त्या पुष्पैकचषके मधु पिबन्मधुव्रतः प्रत्याययति। श्रृङ्गकोटिकण्डूयनजनितसुखनिमीलितलोचनां च वामलोचनामवगम्य परिचर्यायाम— पर्याप्ततृष्णः कृष्णसारो बोधयति।
२. अथ द्वितीयश्लोके कौटिल्यं, तद्यथा 'ददौ सरःपङ्कजे' त्यादि। इदं च तद्रतेः स्वभावकुटिलत्वमभिव्यक्त्यवस्थायामुन्मिषति, यदेवं नाम प्रेमपरीक्षा प्रवर्तते यद्यहं ते प्रिया तन्मदुच्छिष्टं भुङ्क्ष्व, यद्यहं ते दयितः तद् भुक्तशेषमुपभुङ्क्ष्वेति। तयोरेकमारण्यकस्यारण्यानामशेषभागेषु विशेषसद्म पद्मसरोऽवगाह्य विहरतो हृदयवल्लभस्य यूथाधिपतेरनेकपस्य सरोजरेणुसम्पर्कीपिञ्जरं कषायसुरभिशीतलं पुराणमैरेयानुकारि वा गण्डूषमर्पयन्ती वाशिता शिक्षयति। द्वितीयमपि द्रमिडीदन्तदारितार्द्रक्रमुकफलपालिकोमलं कषायस्वादुविशदमिन्दुकलाखण्डपाण्डु— रमृणालकबलावशेषमात्मनः प्रियतमायै प्रयच्छन् प्रेमवक्रश्चक्रवाकोऽध्यापयति।
३. तृतीयश्लोके अभ्यवहारार्थो यथा—'गीतान्तरेषु' इत्यादि। सोऽयं रतेरभ्यवहारो नाम येयमिन्द्रियाणां विषयेषु गर्धातिशयात् प्रवृत्तिः, सा चेह गीतध्वनिमनोहरे हर्षगद्गदालापे च श्रमजलतुषारशीतलकोमलपरिपाण्डुगण्डमण्डलाभोगे च मदवश— विघूर्णितनयनेन्दीवरे समुल्लसत्पत्रवल्लीविशेषाहरणे च सुधायमानोष्ठपल्लवास्वादे स्वादितमधुविशेषधुरकटुकषाये च स्वेदप्रत्यार्द्रीकृतविचित्रपत्रवर्णकोद्ग्रन्थौ पुष्पासव— सुरभिवदनगन्धवदे च सहचरीमुखेन्दौ किम्पुरुषेणाभ्यनुज्ञायमाना सर्वेन्द्रियाह्वादमाज्ञापयन्ती यथोक्तमर्थं ज्ञापयति।
४. चतुर्थश्लोकेऽनुभवार्थो यथा — 'सम्प्राप्तपुष्पे'त्यादि। इयमेव सा रतेरनुभवप्रकर्षसीमा यदासादितप्रकृष्टयौवना यथोक्तगुणवती युवतिरुन्मिषत्सात्त्विक— भावा स्वयङ्ग्रहेण दयितमानन्दयति। तत्र च 'सम्प्राप्तपुष्पस्तबकस्तनीभ्य' इति पदेन उपारुढयौवनत्वं लक्षयति। 'स्फुरत्प्रवालोष्ठमनोहराभ्य' इत्यनेन च सात्त्विकाविर्भावमभिधत्ते। 'लतावधूभ्य' इत्यादिकं तु यथावर्णितार्थानुकूलमेवेति।
अथैतेष्वेवोपसर्गार्थसंक्षेपादयः प्रतिपाद्यन्ते। तेषु —
१. पालनसंक्षेपो यथा— 'मधु द्विरेफ' इत्यादि। इदमेव च संक्षेपेण प्रतिपालनम्, यदिच्छानुवृत्त्या सहपानमानुकूल्येन परिचर्येति, तच्चेह पूर्वोत्तरार्धयोरुपलभ्यत इति।
पालनसङ्करो यथा—'ददौ सरः पङ्कजे'त्यादि। स चायं प्रेमपालने कामवामतासङ्करो, यदन्यथा लोके प्रसिद्धमन्यथा प्रसाध्यते। तदिहोभयार्धयोः प्रियतमाभ्यामुच्छिष्टदानेन प्रतीयत इति।१
पालने सम्यक्त्वं यथा—'सम्प्राप्तपुष्पे' त्यादि। इदं च तत्प्रेमपालने सम्यक्त्वं योऽयं त्यक्तलज्जाया इव योषितः स्वयंग्राहेण पाणिग्रहोपगूहनप्रकारेष्वभिनिवेशः। स १. अतः परं 'पालने सम्पूर्णत्वं' नास्ति। चेह लतावधूनां लतोवेष्टितकवृक्षाधिरूढाद्यालिङ्गनप्रकारविधानेनानुमीयते। तत्र च लतेव सालं वेष्टयन्ती चुम्बनार्थिनी यन्मुखमवनमयेन्मन्दसीत्कृता तमाश्रिता वा किञ्चिद् रामणीयकं पश्येत् तत् लतावेष्टितकम्। चरणेन चरणमाक्रम्य द्वितीयेनोरुदेशमाक्रामयन्ती वेष्टयन्ती वा पृष्ठसक्तैकबाहुर्द्वितीयेनांसमवनमयन्ती ईषत्प्रताश्वसितकूजिता चुम्बनार्थमेवा— धिरोढुमिच्छेदिति वृक्षाधिरूढम् (कामसू. २.२)। स्तनाभ्यामुरः प्रविश्य तत्रैव हारमावेशयेदिति स्तनोपगूढम्। जघनेन जघनमवपीड्य प्रकीर्यंमाणकुसुमकेशहस्ता चुम्बननखदशन— पदप्रयोजनायोपरि लङ्घयेत्। तज्जघनोपगूहनमिति। चुम्बनार्थित्वं चेह स्फुरत्प्रवालोष्ठतयानुमीयते, स्तनभारारोपणं सुजातपुष्पस्तबकावनम्रत्वेन। प्रकीर्यमाण— कुसुमकेशपाशादिकं तु लतावधूनां स्वरूपमेवेति।
२. कौटिल्ये संक्षेपो यथा—'मधु द्विरेफ' इत्यादि। अत्र चायं प्रेमकुटिलतासंक्षेपो लक्ष्यते। यत्र यत्र चञ्चरीकसहचरी मधु पिपासुः कुसुमे परिभ्रमति तत्र तत्रायमपनुदन्निवैनामनुप्रवर्तमानः परिहासेनेव चरति। सारङ्गोऽपि मन्मथार्तिप्रवर्तिता— भिमर्शस्पर्शसुखनिमीलिताक्षीं विषाणाग्रेण नखमुखेनेव वल्लभामुल्लिखन् विकत्थमानः कामवामतां प्रकटयति।
कौटिल्ये सङ्करो यथा—'ददौ सरःपङ्कजे'त्यादि। अस्यैवार्थः पालनसङ्करेणैव व्याख्यातः। तत्र हि पालनं कौटिल्येन सङ्कीर्णम्, इह तु कौटिल्यं पालनेनेति। एतावांस्तु विशेषः। पालयन् शुचि स्वादु विशदमनिन्दितं चेदभ्यवहरिष्यामीति मन्यमानः प्रियजनाय प्रयच्छति। केवलं कामवामतया तदुच्छेषयति। कुटिलस्तु मा भूदशुच्यस्वादुपिच्छिला वन्यैरप्यनुरागप्रभ्रंश इति तदुपस्कारे विशेषतः प्रयतमानः तथैवोपपादयति।