नाकरोदपकुतूहलं ह्रिया शंसितुं च हृदयेन तत्वरे॥ ११॥
भावसूचितरहस्यविक्रियं चाटुमत् क्षणवियोगकातरम्।
कैश्चिदेव दिवसैस्तयोस्तदा प्रेम रूढमितरेतराश्रयम्॥ १२॥
(४) विस्त्रम्भानुरागयोर्दाढर्यार्थं रमणीयपदार्थानां प्रदर्शनमवलोकनं वा प्रेक्षोदीक्षणम्। यथा—
तत्र काञ्चनशिलातलाश्रयो नेत्रगम्यमवलोक्य भास्करम्।
दक्षिणेतरभुजव्यपाश्रयां व्याजहार सहधर्मचारिणीम्॥ १३॥
नीलपीतकपिशाः पयोमुचां कोटयः कुटिलकेशि! भान्त्यमूः।