मुग्धे मुग्धस्मितमविकृतं सर्वमेतद् वृथा ते नन्वाख्यातो रहसि विनयेनैव कोपानुबन्धः॥ ६॥
भ्रूकुटिरारचिता गतमग्रतो हृतमथाननमुक्तमसाधु वा।
इयमतिप्रभुता क्रियते बलादकुपितोऽपि हि यत्कुपितो जनः॥ ७॥ (सक. ४.१५६)
(४) मानस्यापसरणं मानापगमः, यथाmdash;
दृष्टे लोचनवर्त्मना मुकुलितं पार्श्वस्थिते चक्रव— न्न्यग्भूतं बहिरासितं पुलकवत् स्पर्शं समातन्वति।
नीवीबन्धवदागतं शिथिलतां सम्भाषमाणे प्रिये मानेनापसृतं ह्नियेव सुदृशः पादस्पृशि प्रेयसि॥ ८॥
विहायैतन्मानव्यसनमनयोरुच्चकुचयो— र्निधेयः प्रेयांस्ते यदि वयमनुल्लङ्गघ्यवचसः।
सखीभ्यः स्निग्धाभ्यो गिरमिति निशम्यैणनयना निवापाम्भो दत्ते नयनसलिलैर्मानसुहृदे॥ ९॥
(५) बाष्पमोक्षः प्ररोदनं, यथा—(किराता. ९.४५)