कीस अ इमेसु बहुसो विसम—प्पत—तलिणंजणच्छवि—कलुसा।
दीहावंगेसु तुज्झ परिघोलंति णअणेसु बाहुप्पीडा॥ १३॥
(कस्माच्च अनयोः बहुशः विषमप्रान्ततलिनाञ्जनच्छविकलुषाः।
दीर्घापाङ्गयोस्तव परिगलन्ति नयनयोः बाष्पोत्पीडाः॥)
(७) मृषानिषेधो मुधाप्रतिषेधः, यथा—
उन्नमय्य सकचग्रहमास्यं चुम्बति प्रियतमे हठवृत्त्या।
हुंहु मुञ्च मम चेति च मन्दं जल्पितं जयति मानवतीनाम्॥ १४॥
रुद्धं बाष्पजलेन लोचनयुगं त्वद्दर्शनानिच्छया गात्रं त्वत्परिरम्भमन्तरयितुं रोमोद्रमेनावृतम्।
वक्तुं त्वां परुषा गिरः स्फुरति मे दन्तच्छदः किं मुधा मामाश्र्लिष्यसि निस्त्रपोऽसि शठ! हे नैव प्रसन्नास्मि ते॥ १५॥
(८) सामवाक्यानि परिसान्त्वनानि, यथा—(सक. ५.३६८)