आधातुं विनयं निरागसि जने कुप्यन्तु नामेश्वरा— स्तेन स्वाशयशुद्धिरेव सुकरा प्रायः प्रभूणां पुरः।
मिथ्यामानिनि! मन्यसे यदि तथा नित्यं मनोवर्तिनी वाच्या तामरसाक्ष्यवीक्षि सुभगे!१ का वा त्वदन्या मया॥ १६॥
अवहारेऊण चिरं भणसु तुमं चिअ अमुक्करोसा वि फुडं।
किं अगणेऊण इमं होज्जा तुमंमि मज्झ प्पमाअ-क्खलणं॥ १७॥
(अवधार्य चिरं भण त्वमेवामुक्तरोषापि स्फुटम्।
किं चिन्तयित्वेदं भवेत् त्वयि मम प्रमाददस्खलनम्॥)
(९) नानाविधवर्णनावाक्यानि (चित्रचाटूक्तयः/) चाटुक्तयः, यथा—(अमरु. ८१)
कपोले पत्राली करतलनिरोधेन मृदिता निपीतो निःश्वासैरयममृतहृद्योऽधररसः।
मुहुर्लग्न: कण्ठे तरलयति बाष्पः स्तनतटीं प्रियो मन्युर्जातस्तव निरनुरोधे! न तु वयम्॥ १८॥
कृतप्राया रात्रिः कृशतनु शनैर्येन विनमन् प्रदीपोऽयं निद्रावशमुपगतो घूर्णत इव।