भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 81 to 90 of 262 verses
सेयं रतेरभिव्यक्त्यवस्था ।

अत उत्तरं प्रियाचरणविप्रियाकरणाभ्यां प्रवर्धमाना रतिः प्रागुक्तैरेव विभावानुभाव— व्यभिचारिभिरनुबध्यते। तच्च तदोपपद्यते यदेप्सितमासाद्यते अनीप्सितं च न स्य॰॰॰ पराधीनवृत्तीनां मुनिवननिवासनिर्भयानां भयाहारमैथुनमात्रवेदिनामुपनतमनोऽभिलषितां पुष्पशष्पसल्लकीमृणालतरुतोयवर्षनिर्वृतानामलिमृगमातङ्गरथाङ्गकिन्नरोर्वीरुहमिथुनानाम— मिथ्यैव भवन्ति। सैषा रतेरनुबन्धसंज्ञाका तृतीयावस्था।

चतुर्थ्यपि प्रकर्षसंज्ञिका विद्यते (सा) तु यद्यपि मुख्यवृत्त्येह नोपदिष्टा, तथापि चात्र विशेषोपदर्शनैरुपदिष्टेव भवति। तद्यथा—'मधु द्विरेफ' इत्यादि। तत्र विदग्ध कामिनामन्योक्तिषु भ्रमर एव प्रकृष्यते, तत्र शठधृष्टदक्षिणानुकूलनायकधर्माः कविभिरारोप्यमाणा उपलभ्यन्ते। तेषु —

शठधर्मो यथा—

पिबन्मधु यथाकामं भ्रमरः फुल्लपङ्कजे।

अप्यसन्नद्धसौरभ्यं पश्य चुम्बति कुट्मलम्॥ २५॥

(काव्याद. २.२०६)

धृष्टधर्मो यथा—(किराता. १०.३४)

श्वसनचलितपल्लवाधरोष्ठी नवनिहितेर्ष्यमिवावधूनयन्ती।

मधुसुरभिणि षट्पदेन पुष्पे मुख इव साललतावधूश्‍चुचुम्बे॥ २६॥

Showing 81 to 90 of 262 verses